सेवा क्षालयति पापम्
Manage episode 458301944 series 3606651
पूर्वस्मिन् जन्मनि उत्पन्नया प्रतीकारभावनया काचित् गर्भवती नर्तकी अग्रिमजन्मनि राजगृहे हारीतिः नामिका यक्षिणी भूत्वा नगरस्थान् बालान् चोरयित्वा खादनम् आरब्धवती । राजा तस्याः बन्धनं कारयित्वा कारागृहे स्थापितवान् । गौतमबुद्धेन तस्याः पुत्रः अपहरणीयः इति राजभटाः आदिष्टाः । तथा कृते हारीतिः पश्चात्तापं अनुभवन्ती पापात् कथं विमुक्तिः प्राप्तव्या इति प्रार्थितवती ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A dancer in her previous birth, with a desire for revenge, is reborn as yakshini named Haariti. In this life, she steals children from the town and eats them. The King had her captured and imprisoned. Gautama Buddha instructed the King’s soldiers to kidnap her son. After this, Haariti, feeling guilty, prayed, asking how she could be freed from the consequences of her sins.
95集单集